Wednesday, November 5, 2014

NAVAGRAHA PRARTHANA



 नवग्रहप्रार्थना  
आरोग्यं सविता तनोतु जगतां इन्दुर्यशो निर्मलं
भूतिं भूमिसुतः सुधांशुतनयः प्रज्ञां गुरुर्गौरवम्।
काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं सर्वदा
राहुर्बाहुबलं विरोधिशमनं केतुः कुलस्योन्नतिम् ॥१॥

आदित्यं चन्द्रभौमौ बुधगुरुभृगुजान् भानुजं राहुकेतून्
नत्वा नित्यं त्रिसन्ध्यं जगदुदयलयस्थैर्यसंपत्तिहेतून्।
ज्योतिश्चक्रेऽश्विताराद्युडुगण सहितान् मेषराश्यादि नेतॄन्
एतेष्वासक्तचित्ताः खचरसुरवरान् भक्तितः प्रार्थयामः॥२॥

No comments:

Post a Comment